राधे जय जय माधवदयिते

राधे.... जय जय माधवदयिते ।
गोकुल तरुणी मण्डल महिते॥

दामोदर रतिवर्धन वेशे।
हरिनिष्कुट वृन्दाविपिनेशे ॥
राधे.... जय जय माधवदयिते.....

वृषभानूदधि नवशशिलेखे।
ललितासखि गुणरमितविशाखे॥
राधे.... जय जय माधवदयिते.....

करुणां कुरु मयि करुणाभरिते।
सनक सनातन वर्णितचरिते ॥
राधे.... जय जय माधवदयिते.....

राधे...राधे...राधे...राधे.....राधे....राधे....राधे....राधे....राधे
राधे...राधे...राधे....राधे...राधे...राधे....राधे...राधे...राधे...राधे
श्रेणी
download bhajan lyrics (335 downloads)