श्रीराधाष्टकं

(अनन्तश्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्य "श्री श्रीजी महाराज" द्वारा विरचित)

उपासनीयं शुकनारदाद्यै:
सञ्चिन्तनीयं व्रजगोपगोभि:।
संसेवनीयं परित: सखीभि:
स्मरामि राधापदकञ्जयुग्मम्।।

श्रीमाधवेनापि सदाsभिवंद्यं
सुकोमलं रासरसाभिपूर्णम्।
देदीप्यमानं सततं निकुञ्जे
स्मरामि राधापदकञ्जयुग्मम्।।

कलिन्दजातीरविहारलोलं
कृपार्णवं सर्वसुखैकराशिम्।
निजाsश्रितानां हृदि भासमानं
स्मरामि राधापदकञ्जयुग्मम्।।

ब्रह्मादिदैवरनुमृग्यमाणं
वेदादिशास्त्रैरूपगीयमानम्।
रासस्थलीष्वद्भुतलास्यहृद्यं
स्मरामि राधापदकञ्जयुग्मम्।।

अनन्तसौन्दर्यगुणैककोषं
गौराब्जवर्णं कमनीयरूप्।
काश्मीररागैरनुलिप्यमानं
स्मरामि राधापदकञ्जयुग्मम्।।

वृन्दावने नित्यनिकुञ्जभागे
कदम्बजम्बूविटपान्तराले।
सार्द्धं मुकुन्देन विराजमानं
स्मरामि राधापदकञ्जयुग्मम्।।

कोटीन्दुलावण्य-प्रकाशराशिं
श्रीखण्डपङ्कांकित दर्शनीयम्।
भक्तेप्सित-स्वाश्रयदानशीलं
स्मरामि राधापदकञ्जयुग्मम्।।

श्रीरङ्गदेवी-ललिता-विशाखा
हरिप्रियाद्यङ्गसखीसमूहै:।
आराध्यमानं नवकुञ्जमध्ये
स्मरामि राधापदकञ्जयुग्मम्।।

श्रीराधिकाष्टकं स्तोत्रं पराभक्तिप्रदायकम्।
राधासर्वेश्वर-प्रीत्यै तच्छरणेन निर्मितम्।।
श्रेणी
download bhajan lyrics (300 downloads)