व्रजराजसुताष्टकम्

नवनीरदनिन्दितकान्तिधरं
रससागरनागरभूपवरम् ।
शुभवङ्किमचारुशिखण्डशिखं
भज कृष्णनिधिं व्रजराजसुतम् ॥

भ्रुविशङ्कितवङ्किमशक्रधनुं
मुखचन्द्रविनिन्दितकोटिविधुम् ।
मृदुमन्दसुहास्यसुभाष्ययुतं
भज कृष्णनिधिं व्रजराजसुतम् ॥

सुविकम्पदनङ्गसदङ्गधरं
व्रजवासिमनोहरवेशकरम् ।
भृशलाञ्छितनीलसरोज दृशं
भज कृष्णनिधिं व्रजराजसुतम् ॥

अलकावलिमण्डितभालतटं
श्रुतिदोलितमाकरकुण्डलकम् ।
कटिवेष्टितपीतपटं सुधटं
भज कृष्णनिधिं व्रजराजसुतम् ॥

कलनूपुरराजितचारुपदं
मणिरञ्जितगञ्जितभृङ्गमदम् ।
ध्वजवज्रझषाङ्कितपादयुगं
भज कृष्णनिधिं व्रजराजसुतम् ॥

भृशचन्दनचर्चितचारुतनुं
मणिकौस्तुभगर्हितभानुतनुम् ।
व्रजबालशिरोमणिरूपधृतं
भज कृष्णनिधिं व्रजराजसुतम् ॥

सुरवृन्दसुवन्द्यमुकुन्दहरिं
सुरनाथशिरोमणिसर्वगुरुम् ।
गिरिधारिमुरारिपुरारिपरं
भज कृष्णनिधिं व्रजराजसुतम् ॥

वृषभानुसुतावरकेलिपरं
रसराजशिरोमणिवेशधरम् ।
जगदीश्वरमीश्वरमीड्यवरं
भज कृष्णनिधिं व्रजराजसुतम् ॥
श्रेणी
download bhajan lyrics (334 downloads)