श्री गिरीराज अष्टकम

श्रीहरिदासवर्याष्टकम्
श्रीमद् व्रजभूषमात्मज श्रीव्रजेश्वर कृतं,

यतो हि सर्वे भवतापशान्तिं लभेयुरेतां व्रजराजदासाः,
सदा कृपां यःकरणेसमर्थः भजाम्यहं तं हरिदासवर्यम् ॥

यदा व्रजेन्द्रेण गिरीन्द्रयज्ञे नन्दाय संबोध्य कृतोऽत्रकूटः।
स्वयं हि कर्ता स्वयमेव भोक्ता भजाम्यहं तं हरिदासवर्यम् ॥

प्रवर्षिते मेधचये जलौघे दधार छत्राकनिभं व्रजेशः,
जहार मानं च सुरेखरस्य भजाम्यहं तं हरिदासवर्यम् ॥

शंखेन चक्रेण जलं विशोष्य प्रसाद्य सर्वव्रजमानसानि,
जुगोप सर्वान्द्रज गोपसंघान् भजाम्यहं तं हरिदासवर्यम् ॥

व्रतं दधौ यच्छरणं च गोष्ठं स्वदास मन्यांश्च स्वकीयभक्तान्,
निजेन योगेनररक्ष कृष्णः भजाम्यहं तं हरिदासवर्यम् ॥

व्रजेन्द्र भक्तस्य सदैव वाञ्छां प्रपूर्य गोवर्द्धननाथसेवाम् ,
ददाति गोपीजनभावयुक्तां भजाम्यहं तं हरिदासवर्यम् ॥

नमन्ति भावेन जनाश तेषां समस्तपापक्षयमेव भूयात् ।
मनोभिलाषं च करोति पूर्ण भजाम्यहं तं हरिदासवर्यम् ॥

गिरीन्द्र! गोवर्द्वन नाथ ! विष्णो ! कुरुष्व दासे करुणां कृपालो ॥
नमामि ते पादसरोजयुग्मे भजाम्यहं तं हरिदासवर्यम् ॥

तवाष्टकं श्री व्रजभूषणानां सुतेन चोक्तं भवतात् कृपार्थम् ।
सुपाठकस्य प्रभवेत् सुपुष्टिः भजाम्यहं तं हरिदासवर्यम् ॥

॥ इति श्रीमद् व्रजभूषमात्मज श्रीव्रजेश्वर कृतं श्रीहरिदास वर्याष्टकं स्तोत्रं संपूर्णम् ॥
श्रेणी
download bhajan lyrics (572 downloads)