नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये ।।१।।

प्रथमं वक्रतुण्डं च एकदंत द्वितीयकम् ।
तृतीयं कृष्णपिड्:गाक्ष गजवक्त्रं चतुर्थकम् ।।२।।

लम्बोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेंद्रं धूर्मवर्णं तथाष्टकम् ।।३।।

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।४।।

द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो: ।।५।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्।।६।।

जपेद्गगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।
सम्वत्सरेण सिद्धिं च लभते नात्र संशय: ।।७।।

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशास्य प्रसादत: ।।८।
श्रेणी
download bhajan lyrics (659 downloads)